(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.161. अध्यायः 161
Mahabharata - Udyoga Parva - Chapter Topics
उलूकेन पाण्डवानुपेत्य युधिष्ठिरार्जुनौप्रति दुर्योधनसन्देशकथनम् ॥ 1 ॥


Mahabharata - Udyoga Parva - Chapter Text

5-161-0(37385)
सञ्जय उवाच। 5-161-0x(3857)
सेनानिवेशं संप्राप्तः कैतव्यः पाण्डवस्य ह ।
समागतः पाण्डवेयैर्युधिष्ठिरमभाषत ॥ 5-161-1(37386)
अभिज्ञो दूतवाक्यानां यथोक्तं ब्रुवतो मम।
दुर्योधनसमादेशं श्रुत्वा न क्रोद्धुमर्हसि ॥ 5-161-2(37387)
युधिष्ठिर उवाच। 5-161-3x(3858)
उलूक न भयं तेऽस्ति ब्रूहि त्वं विगतज्वरः ।
यन्मत्तं धार्तराष्ट्रस्य लुब्धस्यादीर्घदर्शिनः ॥ 5-161-3(37388)
सञ्जय उवाच। 5-161-4x(3859)
ततो द्युतिमतां मध्ये पाण्डवानां महात्मनाम्।
सृञ्जयानां च मत्स्यानां कृष्णस्य च यशस्विनः ॥ 5-161-4(37389)
द्रुपदस्य सपुत्रस्य विराटस्य च संनिधौ ।
भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह ॥ 5-161-5(37390)
उलूक उवाच। 5-161-6x(3860)
इदं त्वामब्रवीद्राजा धार्तराष्ट्रो महामनाः ।
श्रृण्वतां कुरुवीराणां तन्निबोध युधिष्ठिर ॥ 5-161-6(37391)
पराजितोऽसि द्यूतेन कृष्णा चानायिता सभाम् ।
शक्योऽमर्षो मनुष्येण कर्तुं पुरुषमानिना ॥ 5-161-7(37392)
द्वादशैव तु वर्षाणि वने धिष्ण्याद्विवासितः ।
संवत्सरं विराटस्य दास्यमास्थाय चोषितः ॥ 5-161-8(37393)
अमर्षं राज्यहरणं वनवासं च पाण्डव।
द्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव ॥ 5-161-9(37394)
अशक्तेन च यच्छप्तं भीमसेनेन पाण्डव ।
दुःशासनस्य रुधिरं पीयतां यदि शक्यते ॥ 5-161-10(37395)
लोहाभिसारो निर्वृत्तः कुरुक्षेत्रमकर्दमम्।
समः पन्था भृतास्तेश्वाः श्वो युध्यस्व सकेशवः ॥ 5-161-11(37396)
असमागम्य भीष्मेण संयुगे किं विकत्थसे ।
आरुरुक्षुर्यथा पङ्गुः पर्वतं गन्धमादनम् ॥ 5-161-12(37397)
एवं कत्थसि कौन्तेय अकत्थन्पुरुषो भव।
सूतपुत्रं सुदुर्घर्षं शल्यं च बलिनां वरम् ॥ 5-161-13(37398)
द्रोणं च बलिनां श्रेष्ठं शचीपतिसमं युधि।
अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि ॥ 5-161-14(37399)
ब्राह्मे धनुषि चाचार्यं वेदयोरन्तगं द्वयोः।
युधि धुर्यमविक्षोभ्यमनीकचरमच्युतम् ॥ 5-161-15(37400)
द्रोणं महाद्युतिं पार्थ जेतुमिच्छसि तन्मृषा ।
न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम् ॥ 5-161-16(37401)
अनिलो वा वहेन्मेरुं द्यौर्वापि निपतेन्महीम् ।
युगं वा परिवर्तेत यद्येवं स्याद्यथात्थ माम् ॥ 5-161-17(37402)
को ह्यस्ति जीविताकाङ्क्षी प्राप्येममरिमर्दनम् ।
गजो वाजी रथो वापि पुनः स्वस्ति गृहान्व्रजेत् ॥ 5-161-18(37403)
कथमाभ्यामभिध्यातः संसृष्टो दारुणेन वा ।
रणे जीवन्विमुच्येत पदा भूमिमुपस्पृशन् ॥ 5-161-19(37404)
किं दुर्दुरः कूपशयो यथेमां
न बुध्यमे राजचमूं समेताम्।
दुराधरषां देवचमूप्रकाशां
गुप्तां नरेन्द्रैस्त्रिदशैरिव द्याम् ॥ 5-161-20(37405)
प्राच्यैः प्रतीच्यैरथ दाक्षिणात्यै-
रुदीच्यकाम्भोजशकैः खशैश्च।
साल्वैः समत्स्यैः कुरुमुख्यदेश्यै-
र्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः ॥ 5-161-21(37406)
नानाजनौघं युधि संप्रवृद्धं
नाङ्गं यथा वेगमपारकणीयम्।
मां च स्थितं नागबलस्य मध्ये
युयुत्समे मन्द किमल्पबुद्धे ॥ 5-161-22(37407)
इत्येवमुक्त्वा राजानं धर्मपुत्रं युधिष्ठिरम्।
अभ्यवृत्य पुनर्जिष्णुमुलूकः प्रत्यभाषत ॥ 5-161-23(37408)
अकत्थमानो युध्यस्व कत्थेसेऽर्जुन किं बहु।
पर्यायात्सिद्धिरेस्य नैतत्सिध्यति कत्थनात् ॥ 5-161-24(37409)
यदीदं कत्थनाल्लोके सिध्येत्कर्म धनञ्जय ।
सर्वे भवेयुः सिद्धार्थाः कत्थने को हि दुर्गतः ॥ 5-161-25(37410)
जानामि ते वासुदेवं सहायं
जानामि ते गाण्डिवं तालमात्रम्।
जानाम्येतत्त्वादृशो नास्ति योद्धा
जानानस्ते राज्यमेतद्धरामि ॥ 5-161-26(37411)
न तु पर्यायधर्मेण राज्यं प्राप्नोति मानुषः ।
मनसैवानुकूलानि विधाता कुरुते वशे ॥ 5-161-27(37412)
त्रयोदश समा भुक्तं राज्यं विलपतस्तव ।
भूयश्चैव प्रशासिष्ये निहत्य त्वां सबान्धवम् ॥ 5-161-28(37413)
क्व तदा गाण्डिवं तेऽभूद्यत्त्वं दासपणैर्जितः।
क्व तदा भीमसेनस्य बलमासीच्च फाल्गुना ॥ 5-161-29(37414)
सगदाद्भीमसेनाद्वा पार्थाद्वापि सगाण्डिवात् ।
न वै मोक्षस्तदा वोभूद्विना कृष्णामनिन्दिताम् ॥ 5-161-30(37415)
सा वो दास्ये समापन्नान्मोचयामास पार्षती ।
अमानुष्यं समापन्नान्दासकर्मण्यवस्थितान् ॥ 5-161-31(37416)
अवोचं यत्षण्डतिलानहं वस्तथ्यमेव तत् ।
धृता हि वेणी पार्थेन विराटनगरे तदा ॥ 5-161-32(37417)
सूदकर्मणि च श्रान्तं विराटस्य महानसे ।
भीमसेनेन कौन्तेय यच्च तन्मम पौरुषम् ॥ 5-161-33(37418)
एवमेतत्सदां दण्डं क्षत्रियाः क्षत्रिये दधुः ।
वेणीं कृत्वा षण्डवेषः कन्यां नर्तितवानसि ॥ 5-161-34(37419)
न भयाद्वासुदेवस्य न चापि तव फाल्गुन ।
राज्यं प्रतिप्रदाकस्यामि युद्ध्यस्व सहकेशवः ॥ 5-161-35(37420)
न माया हीन्द्रजालं वा कुहका वापि भीषणा ।
आत्तशस्त्रस्य मे युद्धे वहन्ति प्रतिगर्जनाः ॥ 5-161-36(37421)
वासुदेवसहस्रं वा फाल्गुनानां शतानि वा।
आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दशः ॥ 5-161-37(37422)
संयुगं गच्छ भूष्मेण भिन्धि वा शिरसा गिरिम्।
तरेमं वा महागाधं सौमदत्तितिमिङ्गिलम् ॥ 5-161-38(37423)
शारद्वतमहामीनं विविंशतिमहोरगम् ।
बृहद्बलमहोद्वेलं सौमदत्तिकतिमिङ्गितम् ॥ 5-161-39(37424)
भीष्मवेगमपर्यन्तं द्रोणग्राहदुरासदम्।
कर्णशल्यझषावर्तं काम्भोजबडबासुखम् ॥ 5-161-40(37425)
दुःशासनौघं शलशल्यमत्स्यं
सुषेणचित्रायुधनागनक्रम्।
जयद्रथाद्रिं पुरुमित्रगाधं
दुर्मर्षणोदं शकुनिप्रपातम् ॥ 5-161-41(37426)
शस्त्रौघमक्षय्यमतिप्रवृद्धं
यदावगाह्य श्रमनष्टचेताः।
भविष्यसि त्वं हतसर्वबान्धव-
स्तदा मनस्ते परितापमेष्यति ॥ 5-161-42(37427)
तदा मनस्ते त्रिदिवादिवाशुचे-
र्निवर्तिता पार्थ महीप्रशासनात्।
प्रशाम्य राज्यं हि सुदुर्लभं त्वया
बुभूषितः स्वर्ग इवातपस्विना ॥ ॥ 5-161-43(37428)

इति श्रीमन्महाभारते उद्योगपर्वणि उलूकदूतागमनपर्वणि एकषष्ट्यधिकशततमोऽध्यायः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.